Maa Bagalamukhi Mandir Logo
Menu
शक्ति GPT AI
ब्लॉगसंपर्क

अथ श्री बगलामुखी कवचम्

प्रस्तावना

माँ बगलामुखी का यह दिव्य कवच रुद्रयामल तन्त्र से उद्धृत है, जो शत्रुओं का नाश करने वाला और समस्त अशुभताओं को दूर करने वाला है।

विनियोगः

ॐ अस्य श्रीबगलामुखीकवचस्य नारद ऋषिः, अनुष्टुप् छन्दः, श्रीबगलामुखी देवता, ह्रीं बीजम्, ऐं कीलकम्, पुरुषार्थचतुष्टयसिद्धये जपे विनियोगः॥

● ● ●
ध्यानम्

मध्येसुधाब्धिमणिमण्डपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं भजामि धृतमुद्गरवैरिजिह्वfilter ॥ १ ॥

● ● ●

जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् । गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २ ॥

● ● ●
श्री पार्वत्युवाच

देवदेव महादेव भक्कानुग्रहकारक । शृणु विज्ञाप्यते यत्तु श्रुत्वा सर्वं निवेदय ॥ १ ॥

● ● ●

विशुद्धाः कौलिका लोके ये मत्कर्मपरायणाः । तेषां निन्दाकरा लोके बहवः किल दुर्जनाः ॥ २ ॥

● ● ●

मनोबाधां विदधते मुहुः कटुभिरुक्किभिः । तेषामाशु विनाशाय त्वया देव प्रकाशितः ॥ ३ ॥

● ● ●

यो मन्त्रो बगलामुख्याः सर्वकामसमृद्धिदः । कवचं तस्य मन्त्रस्य प्रकाशय दयानिधे ॥ ४ ॥

● ● ●
श्री भैरव उवाच

शृणु त्वं बगलामुख्याः कवचं सर्वकामदं । येन संरक्षितो लोके विजयी सर्वतो भवेत् ॥ ५ ॥

● ● ●
अथ कवचम्

शिरो मे बगला पातु हृदयैकाक्षरी परा । ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी ॥ १ ॥

● ● ●

गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी । वैरिजिह्वाधरा पातु कण्ठं मे बगलामुखी ॥ २ ॥

● ● ●

उदरं नाभिदेशं च पातु नित्यं परात्परा । परात्परतरा पातु मम गुह्यं सुरेश्वरी ॥ ३ ॥

● ● ●

हस्तौ चैव तथा पादौ पार्वती परिपातु मे । विवादे विषमे घोरे संग्रामे रिपुसंकटे ॥ ४ ॥

● ● ●

पीताम्बरधरा पातु सर्वाङ्गं शिवनर्तकी । श्रीविद्या समयं पातु मातङ्गी पूरिता शिवा ॥ ५ ॥

● ● ●

पातु पुत्रं सुतं चैव कलत्रं कालिका मम । पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ॥ ६ ॥

● ● ●
फलश्रुति

इति ते कथितं देवि कवचं परमाद्भुतम् । श्रीविश्वविजयं नाम कीर्तिश्रीविजयप्रदाम् ॥ ७ ॥

● ● ●

अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् । निर्धनो धनमाप्नोति कवचस्यास्य पाठतः ॥ ८ ॥

● ● ●

जपित्वा मन्तरराजं तु ध्यात्वा श्री बगलामुखीम् । पठेदिदं हि कवचं निशायां नियमात् तु यः ॥ ९ ॥

● ● ●

यद् यत् कामयते कामं साध्यासाध्ये महीतले । तत् तत् काममवाप्नोति सप्तरत्रेण शङ्करी ॥ १० ॥

● ● ●

गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्यितः । कवचं यः पठेद् देवि तस्यासाध्यं न किञ्चन ॥ ११ ॥

● ● ●

यं ध्यात्वा प्रजपन्मन्त्रं सहस्रं कवचं पठेत् । त्रिरत्रेण वशं याति मृत्योः तन्नात्र संशयः ॥ १२ ॥

● ● ●

लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया । लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन् मनम् ॥ १३ ॥

● ● ●

एकविंशतिनदिनं यावत प्रत्यहं च सहस्त्रकम् । जप्त्वा पठेत् तु कवचं चतुर्विंशतिवारकम् ॥ १४ ॥

● ● ●

संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा । विवादे विजयं तस्य सङ्ग्रामे जयमाप्नुयात् ॥ १५ ॥

● ● ●

श्मशाने च भयं नास्ति कवचस्य प्रभावतः । नवनीतं चाभिमन्त्र्य स्त्रीणां दद्यान्महेश्वरि ॥ १६ ॥

● ● ●

वन्ध्यायां जायते पुत्रो विद्याबलसमन्वितः । श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ ॥ १७ ॥

● ● ●

पादोदकेन स्पृष्ट्वा च लिखेत् लोहशलाकाय । भूमौ शत्रोः स्वरूपं च हृदि नाम समालिखेत् ॥ १८ ॥

● ● ●

हस्तं तद्धृदये दत्त्वा कवचं तिथिवारकम् । ध्यात्वा जपेद् मनल्नरानं नवरात्रं प्रयत्नतः ॥ १९ ॥

● ● ●

म्रियते ज्वरदहेन दशमेऽहन्य न संशयः । भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् ॥ २० ॥

● ● ●

धारयेद् दक्षिणे बाहौ नारी वामभुजे तथा । सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् ॥ २१ ॥

● ● ●

सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् । ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ॥ २२ ॥

● ● ●

बृहस्पतिसमो वापि विभवे धनदोपमः । कामतुल्यश्च नारीणां शत्रूणां च यमोपमः ॥ २३ ॥

● ● ●

कवितालहरी तस्य भवेद् गङ्गाप्रवाहवत् । गद्यपद्यमयी वाणी भवेद् देवी प्रसातः ॥ २४ ॥

● ● ●

एकादशशतं यावत् पुरश्चरणमुच्यते । पुरश्चर्याविहीनं तु न चेदं फलदायकम् ॥ २५ ॥

● ● ●

न देयम्परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः । देयं शिष्याय भक्काय पञ्चत्वं चान्यथाऽऽप्नुयात् ॥ २६ ॥

● ● ●
समापनम्

इति श्रीरुद्रयामले बगलामुखीकवचं सम्पूर्णम् ॥

● ● ●

स्रोत: विश्वसारोद्धार तन्त्र | मन्दिर प्रामाणिक पाठ

0.0
0 रेटिंग

भक्तों के विचार 0