अथ श्रीबगलामुखी ब्रह्मास्त्र कवचम्
प्रस्तावना
बगलामुखी ब्रह्मास्त्र कवच एक अत्यंत शक्तिशाली स्तोत्र है जो साधक को शत्रुओं के प्रहार से ठीक उसी तरह बचाता है जैसे ब्रह्मास्त्र। यह कवच 'विश्वसारोद्धारतन्त्र' से उद्धृत है और देवी की असीम शक्ति का प्रतीक है।
कैलासाचलमध्यगं पुरवहं शान्तं त्रिनेत्रं शिवं वामस्था कवचं प्रणम्य गिरिजा भूतिप्रदं पृच्छति । देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या तस्याश्चाप विमुक्त मन्त्र सहितं प्रीत्याऽधुना ब्रूहि माम् ॥ १ ॥
देवी श्रीभववल्लभे शृणु महामन्त्रं विभूतिप्रदं देव्या वर्मयुतं समस्तसुखदं साम्राज्यदमुक्तिदम् । तारं रुद्रवधूं विरिञ्चिमहिलाविष्णुप्रियाकामयुक्कान्ते श्रीबगलानने मम रिपुन्नाशाय युग्मन्त्विति ॥ २ ॥
ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवाञ्छितं कार्यं साधय युग्मयुक्छिववधूवह्निप्रियान्तो मनुः । कंसारेस्तनयञ्च बीजमपरा शक्तिश्च वाणी तथा कीलं श्रीमति भैरवर्ष्षिसहितं छन्दो विराट् संयुतम् ॥ ३ ॥
स्वेष्टार्थस्य परस्य वेत्ति नितरां कार्यस्य सम्प्राप्तये नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये । ध्यात्वा श्रीबगलाननामनुवरं जप्त्वा सहस्राख्यकं दीर्घैः षट्कयुतैश्च रुद्रमहिलाबीजैर्विन्यास्स्याङ्गके ॥ ४ ॥
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् । हस्तैर्मद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषणव्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ॥ ५ ॥
ॐ अस्य श्रीबगलामुखी ब्रह्मास्त्र मन्त्र कवचस्य । भैरव ऋषिः । विराट्छन्दः । श्री बगलामुखी देवता । क्लीँ बीजं । ऐँ शक्तिः । श्रीँ कीलकं । मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ॥ ६ ॥
ॐ ह्रीँ ऐँ श्रीँ क्लीँ श्रीबगलानने मम रिपून् नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छित कार्यं साधयः साधयः ह्रीँ स्वाहा ॥ ७ ॥
शिरो मे पातु ॐ ह्रीँ ऐँ श्रीँ क्लीँ पातु ललाटकम् । सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥ ८ ॥
श्रुतौ मम रिपुम्पातु नासिकान्नाशय द्वयम् । पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥ ९ ॥
देहि द्वन्द्वं सदा जिह्वाम्पातु शीघ्रं वचो मम । कण्ठदेशं मनः पातु वाञ्छितम्बाहुमूलकम् ॥ १० ॥
कार्यं साधय द्वन्द्वन्तु करौ पातु सदा मम । मायायुक्ता तथा स्वाहा हृदयम्पातु सर्वदा ॥ ११ ॥
अष्टाधिकचत्वारिंशदण्डाढ्या बगलामुखी । रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥ १२ ॥
ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु । मन्त्रराजः सदा रक्षां करोतु मम सर्वदा ॥ १३ ॥
ॐ ह्रीँ पातु नाभिदेशमे कटिमे बगलावतु । मुखी वर्णद्वयम्पातु लिङ्गमे मुष्कयुग्मकम् ॥ १४ ॥
जानुनी सर्वदुष्टानाम्पातु मे वर्णपञ्चकम् । वाचं मुखं तथा पदं षड्वर्णा परमेश्वरी ॥ १५ ॥
जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी । स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ॥ १६ ॥
जिह्वां वर्णद्वयम्पातु गुल्फौ मे कीलयेति च । पादोर्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥ १७ ॥
विनाशय पदम्पातु पादाङ्गुल्योर्नखानि मे । ह्रीँ बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥ १८ ॥
सर्वाङ्गम्प्रणवः पातु स्वाहा रोमाणि मेऽवतु । ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥ १९ ॥
माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु । कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥ २० ॥
वाराही चोत्तरे पातु नारसिंही शिवेऽवतु । ऊर्द्ध्वम्पातु महालक्ष्मीः पाताले शारदाऽवतु ॥ २१ ॥
इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः । राजद्वारे महादुर्गे पातु मां गणनायकः ॥ २२ ॥
श्मशाने जलमध्ये च भैरवश्च सदाऽवतु । द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥ २३ ॥
इति ते कथितं देवि कवचं परमाद्भुतम् ॥ २४ ॥
श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् । अपुत्रो लभते पुत्रन्धीरं शूरं शतायुषम् ॥ २५ ॥
निर्द्धनो धनमाप्नोति कवचस्यास्य पाठतः । जपित्वा मन्त्रराजन्तु ध्यात्वा श्रीबगलामुखीम् ॥ २६ ॥
पठेदिदं हि कवचं निशायां नियमात्तु यः । यद् यत् कामयते कामं साध्यासाध्ये महीतले ॥ २७ ॥
तत् तत् काममवाप्नोति सप्तरात्रेण शङ्करी । गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः ॥ २८ ॥
कवचम् यः पठेद् देवि तस्याऽसाध्यं न किञ्चन । यं ध्यात्वा प्रजपेन् मन्त्रं सहस्रं कवचं पठेत् ॥ २९ ॥
त्रिरात्रेण वशं याति मृत्योः तन्नात्र संशयः । लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ॥ ३० ॥
लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेन्मनुम् । एकविंशद्दिनं यावत्प्रत्यहं च सहस्रकम् ॥ ३१ ॥
जप्त्वा पठेत्तु कवचं चतुर्विंशतिवारकम् । संस्तम्भं जायते शत्रोर्न्नात्र कार्या विचारणा ॥ ३२ ॥
विवादे विजयं तस्य सङ्ग्रामे जयमाप्नुयात् । श्मशाने च भयं नास्ति कवचस्य प्रभावतः ॥ ३३ ॥
नवनीतं चाभिमन्त्र्य स्त्रीणां दद्यान् महेश्वरि । वन्ध्यायां जायते पुत्रो विद्याबलसमन्वितः ॥ ३४ ॥
श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ । पादोदकेन स्पृष्ट्वा च लिखेल्लोहशलाकया ॥ ३५ ॥
भूमौ शत्रोः स्वरूपञ्च हृदि नाम समालिखेत् । हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ॥ ३६ ॥
ध्यात्वा जपेन्मन्त्रराजं नवरात्रं प्रयत्नतः । म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥ ३७ ॥
भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् । धारयेद् दक्षिणे बाहौ नारी वामभुजे तथा ॥ ३८ ॥
सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ॥ ३९ ॥
सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् । बृहस्पतिसमो वापि विभवे धनदोपमः ॥ ४० ॥
कामतुल्यश्च नारीणां शत्रूणाञ्च यमोपमः । कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् ॥ ४१ ॥
गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः । एकादशशतं यावत्पुरश्चरणमुच्यते ॥ ४२ ॥
पुरश्चर्याविहीनन्तु न चेदम्फलदायकम् । न देयम्परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥ ४३ ॥
देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाऽऽप्नुयात् । इदं कवचमज्ञात्वा भजेद्यो बगलामुखीम् । शतकोटि जपित्वा तु तस्य सिद्धिर्न्न जायते ॥ ४४ ॥
दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिं पराम् । विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् । ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेष्टगन्धेन वै धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषां नृपः ॥ ४५ ॥
इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे बगलामुखीकवचं सम्पूर्णम् ॥
स्रोत: विश्वसारोद्धार तन्त्र | मन्दिर प्रामाणिक पाठ
